मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६२, ऋक् १

संहिता

ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः ।
अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥

पदपाठः

ब्रह्म॑णा । अ॒ग्निः । सा॒म्ऽवि॒दा॒नः । र॒क्षः॒ऽहा । बा॒ध॒ता॒म् । इ॒तः ।
अमी॑वा । यः । ते॒ । गर्भ॑म् । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥

सायणभाष्यम्

ब्रह्मणाग्निरिति षडृचमेकादशं सूक्तमानुष्टुभम्। ब्रह्मपुत्रो रक्षोहानामर्षिः। अपप्रसवसमाधानरूपस्य गर्भरक्षणस्य प्रतिपाद्यत्वात्तद्देवताकमिदम्। अनुक्रान्तं च। ब्रह्मणा षट् ब्राह्मो रक्षोहा गर्भसंस्रावे प्रायश्चित्तमानुष्तुभं हीति। विनियोगो लिङ्गादवगन्तव्यः॥

ब्रह्मणा मन्त्रेण सह संविदान ऐकमत्यं प्राप्तो रक्षोहा रक्षसाम् हन्ताग्निरितोऽस्मात्स्थानाद्राक्षसादिकं बाधताम्। हिनस्तु। यो राक्षसोऽमीवा रोगरुपः संस्ते तव गर्भमाशये आशेते। लोपस्त आत्मनेपदेष्विति तलोपः। हन्तुं प्राप्नोति। दुर्नामार्श आख्यो रोगः। तद्रूपः सन् यश्च ते तव योनिं रेतस आधानं गर्भस्थानमाशेते तं बाधतामित्यन्वयः॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०