मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६२, ऋक् ५

संहिता

यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते ।
प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

पदपाठः

यः । त्वा॒ । भ्राता॑ । पतिः॑ । भू॒त्वा । जा॒रः । भू॒त्वा । नि॒ऽपद्य॑ते ।
प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥

सायणभाष्यम्

हे योषित् यो राक्षसो भ्राता भ्रातृरूपो भुत्वा पतिर्भर्तृरूपो वा भुत्वा त्वां निपद्यते अभिगच्छति। अथवा जार उपपतिरूपो वा भूत्वाभिगच्छति। एवंभूतो यो राक्षसादिस्ते तव प्रजाम् जिघांसति हन्तुमिच्छति। स्पष्टमन्यत्॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०