मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६२, ऋक् ६

संहिता

यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते ।
प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

पदपाठः

यः । त्वा॒ । स्वप्ने॑न । तम॑सा । मो॒ह॒यि॒त्वा । नि॒ऽपद्य॑ते ।
प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥

सायणभाष्यम्

हे योषित् यो राक्षसादिः स्वप्नेन स्वप्नावस्थया तमसा निद्रया त्वा त्वां मोहयित्वा मूढतां प्रापय्य निपद्यते गर्भघाताय गच्छति। अन्यद्गतम्॥६॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०