मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६४, ऋक् २

संहिता

भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् ।
भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ॥

पदपाठः

भ॒द्रम् । वै । वर॑म् । वृ॒ण॒ते॒ । भ॒द्रम् । यु॒ञ्ज॒न्ति॒ । दक्षि॑णम् ।
भ॒द्रम् । वै॒व॒स्व॒ते । चक्षुः॑ । ब॒हु॒ऽत्रा । जीव॑तः । मनः॑ ॥

सायणभाष्यम्

भद्रं वैश् शोभनमेव वरं वरणीयं दुःस्वप्नविनाशरूपं फलं वृणते। सर्वे जनाः प्रार्थयन्ते। दक्षिणं प्रवृद्धं भद्रं शोभनं तत्फलं युञ्जन्ति। प्राप्नुवन्ति च। वैवस्वते विवस्वतः पुत्रे यमे विषये भद्रं शोभनमेव चक्षुर्दर्शनमहं प्रार्थये। दुःस्वप्नाधिदेवो वैवस्वतोऽस्मान्मा बाधताम्। भद्रमेव दर्शनमिह लोकेऽवस्थानलक्षणं करोत्वित्यर्थः। बहुत्रा बहुषु हि विषयेशु जीवतो मम मनो वर्तते॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२