मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६४, ऋक् ३

संहिता

यदा॒शसा॑ नि॒ःशसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्त॑ः ।
अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥

पदपाठः

यत् । आ॒ऽशसा॑ । निः॒ऽशसा॑ । अ॒भि॒ऽशसा॑ । उ॒प॒ऽआ॒रि॒म । जाग्र॑तः । यत् । स्व॒पन्तः॑ ।
अ॒ग्निः । विश्वा॑नि । अप॑ । दुः॒ऽकृ॒तानि॑ । अजु॑ष्टानि । आ॒रे । अ॒स्मत् । द॒धा॒तु॒ ॥

सायणभाष्यम्

यद्दुष्कृतमाशसाशंसनेनाभिलाषेण जाग्रतो जागरणावस्थायाम् वर्तमाना वयमुपारिम उपगतवन्तः स्म उपगतवन्तः स्म यच्च स्वपन्तः स्वप्नावस्थाम् प्राप्ता उपगतवन्तः स्म। तथा नि सशा निःशंसनेन निर्गताभिलाषेणाभिशसाभिगताभिलाषेण च कारणेनावस्थाद्वये यद्दुष्कृतमुपागच्छेम। तानि विश्वानि सर्वाण्यजुष्टान्यसेव्यान्यप्रियाणि वा दुष्कृतानि दुष्कर्माण्यग्निरस्मदारेऽस्मत्तो दूरदेशेऽप दधातु। अपकृष्यस्थापयतु॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२