मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६४, ऋक् ४

संहिता

यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि ।
प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥

पदपाठः

यत् । इ॒न्द्र॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि॒ऽद्रो॒हम् । चरा॑मसि ।
प्रऽचे॑ताः । नः॒ । आ॒ङ्गि॒र॒सः । द्वि॒ष॒ताम् । पा॒तु॒ । अंह॑सः ॥

सायणभाष्यम्

हे इन्द्र हे ब्रह्मणस्पते युवयोर्विषये यदभिद्रोहमभितो द्रोहं पापं दुःस्वप्नकारनं चरामसि आचरामः कुर्मः तस्मादभिद्रोहादस्मान्रक्शतमिति शेषः। अपि चाङ्गिरसोऽङ्गिरोऽभिः स्तोतृभिः सबान्धवः प्रचेताः प्रकृष्टज्ञानोवरुणश्च द्विषतां द्वेष्टॄणामंहसस्तत्कर्तृकादस्मद्विषयात्पापान्नोऽस्मान्पातु। रक्षतु। यद्वा। विभक्तिव्यत्ययः। आङ्गिरसमङ्गिररोगोत्रं प्रचेतसमृषिं नः। वचनव्यत्ययः। मां द्विषतामंहसः पातु। प्रकृतत्वादिन्द्र इदि गम्यते॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२