मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६५, ऋक् १

संहिता

देवा॑ः क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निरृ॑त्या इ॒दमा॑ज॒गाम॑ ।
तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥

पदपाठः

देवाः॑ । क॒पोतः॑ । इ॒षि॒तः । यत् । इ॒च्छन् । दू॒तः । निःऽऋ॑त्याः । इ॒दम् । आ॒ऽज॒गाम॑ ।
तस्मै॑ । अ॒र्चा॒म॒ । कृ॒णवा॑म । निःऽकृ॑तिम् । शम् । नः॒ । अ॒स्तु॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

सायणभाष्यम्

देवा इति पञ्चर्चं चतुर्दशं सूक्तं निरृतिपुत्रस्य कपोताख्यस्यार्षम् त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रान्तम्। देवा नैरृतः कपोतः कपोतोपहतौ प्रायश्चित्तमिदं वैश्वदेवमिति। कपोतो यदि गृहं प्रविशेत् तदानेन सूक्तेन होतव्यम् । सूत्र्यते हि। कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोत इति प्रत्युचं जुहुयाज्जपेद्वा। आ. गृ. ३-७-७। इति॥

हे देवाः इषितः प्राप्तो निरृत्याः पापदेवताया दूतोऽनुचरः कपोतो यद्भाधनमिच्छन्निभिलषन्निदमस्मदीयं ग्रुहमाजगाम प्राप्नोत् तस्मै बाधनाय तद्भाधननिवृत्त्यर्थमर्चाम। युष्मान्हविषा पूजयाम। ततो निष्क्रुतिं कपोतप्रवेशजन्यस्य दोषस्य परिहृतिं कृणवाम। अनेन हविर्दानेन करवाम। अतो नोऽस्माकं द्विपदे पुत्राय शं सुखमस्तु चतुष्पदे गावश्वप्रभृतये च शं सुखमस्तु॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३