मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६५, ऋक् २

संहिता

शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ ।
अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्न॒ः परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥

पदपाठः

शि॒वः । क॒पोतः॑ । इ॒षि॒तः । नः॒ । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वाः॒ । श॒कु॒नः । गृ॒हेषु॑ ।
अ॒ग्निः । हि । विप्रः॑ । जु॒षता॑म् । ह॒विः । नः॒ । परि॑ । हे॒तिः । प॒क्षिणी॑ । नः॒ । वृ॒ण॒क्तु॒ ॥

सायणभाष्यम्

हे देवाः नोऽस्माकं गृहेष्विषितः कपोताख्यः शकुनः पक्षी शिवः सुखकरोऽनागा अपापहेतुश्चास्तु। हि यस्माद्विप्रो मेधाव्यग्निर्नोऽस्माकं हविर्युष्मभ्यं परिकल्पितं जुषताम् जुषते अतो युष्मत्प्रसादात्पक्षिणी पक्षोपेता हेतिर्हननहेतुः कपोतो नोऽस्मान्परि वृणक्तु। अस्मान्परित्यजतु। मा बाधतामित्यर्थः॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३