मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६५, ऋक् ३

संहिता

हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते अग्नि॒धाने॑ ।
शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो॑ हिंसीदि॒ह दे॑वाः क॒पोतः॑ ॥

पदपाठः

हे॒तिः । प॒क्षिणी॑ । न । द॒भा॒ति॒ । अ॒स्मान् । आ॒ष्ट्र्याम् । प॒दम् । कृ॒णु॒ते॒ । अ॒ग्नि॒ऽधाने॑ ।
शम् । नः॒ । गोभ्यः॑ । च॒ । पुरु॑षेभ्यः । च॒ । अ॒स्तु॒ । मा । नः॒ । हिं॒सी॒त् । इ॒ह । दे॒वाः॒ । क॒पोतः॑ ॥

सायणभाष्यम्

पक्षिणी पक्षोपेता हेतिर्हननहेतुः कपोतोऽस्मान्न दभाति। न हिनस्तु। आष्ट्र्यां व्याप्तायामरण्यान्यामग्निधाने। अग्निर्निधीयतेऽस्मिन्नित्यग्निसहिते प्रदेशे पदं स्थानं कृणुते। करोति। तत्रैव प्रदेशे निवसत्वित्यर्थः। यद्वा। अश्नंत्यस्मिन्नित्याष्ट्री पचनशाला। तस्याम् । अग्निधाने यत्र पचनाग्निर्निधीयते तस्मिन्प्रदेशे पदं पादनिधानम् कृणुते। करोति। तद्धेतुको बाधो नोऽस्माकं न भवत्वित्यर्थः। अपि च नोऽस्माकं गोभ्यश्च पुरुषेभ्यश्च शं सुखं शंसनीयानां दोषाणां शान्तिर्वास्तु। भवतु। हे देवाः इहास्मिन्गृहे कपोतो नोऽस्मान्मा हिंसीत्। युद्मदनुग्रहान्मा बाधाताम्॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३