मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६५, ऋक् ४

संहिता

यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ ।
यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥

पदपाठः

यत् । उलू॑कः । वद॑ति । मो॒घम् । ए॒तत् । यत् । क॒पोतः॑ । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ ।
यस्य॑ । दू॒तः । प्रऽहि॑तः । ए॒षः । ए॒तत् । तस्मै॑ । य॒माय॑ । नमः॑ । अ॒स्तु॒ । मृ॒त्यवे॑ ॥

सायणभाष्यम्

उलूको घूकसंज्ञः पक्षी यदशोभनम् वदति ब्रवीति आत्मीयेन शब्देन सूचयति एतन्मोघं निष्फलमस्तु। कपोतश्चाग्नावग्निमति ग्रुहमध्ये यत्पदं कृणोति करोति एतदपि मोघं निर्वीर्यमस्तु। प्रहितः प्रेषितः एष कपोतो यस्य स्वामिनो दूतोऽनुचरो भवति तस्मै नाम मृत्यवे मारयित्रे यमायैतन्नमः प्रणामोऽस्तु। भवतु॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३