मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६५, ऋक् ५

संहिता

ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्त॒ः परि॒ गां न॑यध्वम् ।
सं॒यो॒पय॑न्तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥

पदपाठः

ऋ॒चा । क॒पोत॑म् । नु॒द॒त॒ । प्र॒ऽनोद॑म् । इष॑म् । मद॑न्तः । परि॑ । गाम् । न॒य॒ध्व॒म् ।
स॒म्ऽयो॒पय॑न्तः । दुः॒ऽइ॒तानि॑ । विश्वा॑ । हि॒त्वा । नः॒ । ऊर्ज॑म् । प्र । प॒ता॒त् । पति॑ष्ठः ॥

सायणभाष्यम्

हे देवाः ऋचा मन्त्रेण स्तूयमानाः सन्तो यूयं प्रणोदं प्रकर्षेन नोदनीयं बहिष्कर्तव्यम् कपोतम् पक्षिणम् नुदत। अस्माद्गृहात्प्रेरयत। निर्गमयत। तथा मदन्तोऽस्माभिर्दत्तैर्हविर्भिर्माद्यन्त इषमन्नं गां च परिणयध्वम्। परितोऽस्मभ्यं पापयत। किं कुर्वन्तः। विश्वा सर्वाणि दुरितानि कपोतोपहतिजन्यानि दोषजातानि संयोपयन्तोऽद्रुश्यानि कुर्वन्तः। अपि च पतिष्ठोऽतिशयेन पतिता शीघ्रोत्पातकः कपोतो नोऽस्माकमूर्जमन्नं हित्वा परित्यज्य प्र पतात्। प्रकर्षेन पततु। पक्शाभ्यामुत्पततु॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३