मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६९, ऋक् १

संहिता

म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् ।
पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृळ ॥

पदपाठः

म॒यः॒ऽभूः । वातः॑ । अ॒भि । वा॒तु॒ । उ॒स्राः । ऊर्ज॑स्वतीः । ओष॑धीः । आ । रि॒श॒न्ता॒म् ।
पीव॑स्वतीः । जी॒वऽध॑न्याः । पि॒ब॒न्तु॒ । अ॒व॒साय॑ । प॒त्ऽवते॑ । रु॒द्र॒ । मृ॒ळ॒ ॥

सायणभाष्यम्

मयोभूरिति। चतुरृचमष्टादशं सूक्तं कक्षीवद्गोत्रस्य शबरस्यर्षम् त्रैष्टुभम् गोदेवत्यम्। अनुक्रान्तं च। मयोभूः शबरः काक्षीवतो गव्यमिति। घासाय वनं प्रतिष्ठमाना गा आदितो द्वाभ्यामभिमन्त्रणीयाः। सूत्रितं च। गाः प्रतिष्ठमाना अनुमन्त्रयेत मयोभूर्वातो अभि वातूस्रा इति द्वाभ्याम् । आ. गृ. २-१०-५। इति॥

वातो वायुर्मयोभूः सुखस्य भावयिता सन्नुस्रा गा अभि वातु। अभिगच्छतु। ताश्च गाव ऊर्जस्वती रसवतीरोषधीर्बलवन्ति तृणान्या रिशन्ताम्। अभितः स्वादयन्तु। तथा पीवस्वतीः प्रवृद्धा जीवधन्या जीवानां प्राणयित्रीरपश्च पिबन्तु। हे रुद्र ज्वरादिरोगस्य प्रेक्षणेन संहर्तर्देव पद्वते पादयुक्तायावसायान्नाय गोरूपाय मृळ। उपदयां कुरु। मा बाधस्वेत्यर्थः॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७