मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६९, ऋक् २

संहिता

याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ ।
या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्य॑ः पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥

पदपाठः

याः । सऽरू॑पाः । विऽरू॑पाः । एक॑ऽरूपाः । यासा॑म् । अ॒ग्निः । इष्ट्या॑ । नामा॑नि । वेद॑ ।
याः । अङ्गि॑रसः । तप॑सा । इ॒ह । च॒क्रुः । ताभ्यः॑ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥

सायणभाष्यम्

या गावः सरूपाः समानरूपा याश्च विरूपा विभिन्नरूपा याश्चैकरूपा एकेनैव वर्णेनोपेता यासां च गवां नामानीडे रन्तेऽदित इत्यादीनीष्ट्या यागेन हेतुनाग्निर्वेद जानाति याश्च गा अङ्गिरस ऋषयस्तपसा पशुप्राप्तिसाधनेन चित्रायागादिलक्षणेनेहास्मिंल्लोके चक्रुः कृतवन्तः ताभ्यः सर्वाभ्यो गोभ्यो हे पर्जन्य महि महच्छर्म सुखं यच्छ। प्रदेहि॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७