त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्रावः॑ सु॒ताव॑तः ।
अशृ॑णोः सो॒मिनो॒ हव॑म् ॥
त्वम् । त्यम् । इ॒टतः॑ । रथ॑म् । इन्द्र॑ । प्र । आ॒वः॒ । सु॒तऽव॑तः ।
अशृ॑णोः । सो॒मिन॑ । हव॑म् ॥
त्वं त्यमिति चतुरृचं विंशं सूक्तं भृगुपुत्रस्येटस्यार्षं गायत्रमैन्द्रम्। अनुक्रान्तं च। त्व त्यमिटो भार्गवो गायत्रमिति। गतो विनियोगः॥
हे इन्द्र सुतावतः सुतेनाभिषुतेन सोमेन युश्तस्येटत इटस्य। सुपां सुलुगिति ङसस्तस्। एतत्संज्ञस्यर्षेस्त्यं तं प्रसिद्धं रथं प्रावः। प्रारक्शः। सोमिनः सोमयुक्तस्य मम हवमाह्वानमशृणोः। शृणु॥१॥