त्वं म॒खस्य॒ दोध॑त॒ः शिरोऽव॑ त्व॒चो भ॑रः ।
अग॑च्छः सो॒मिनो॑ गृ॒हम् ॥
त्वम् । म॒खस्य॑ । दोध॑तः । शिरः॑ । अव॑ । त्व॒चः । भ॒रः॒ ।
अग॑च्छः । सो॒मिनः॑ । गृ॒हम् ॥
हे इन्द्र त्वं मखस्य यज्ञस्य दोधतः कम्पमानस्य देवेभ्यः पालयमानस्य शिरः प्रवर्ग्यरूपं त्वचस्त्वगुपलक्शिताच्छरीराद्व भरः। अवयुत्यपृथक्कृत्य हृतवानसि। देवेभ्यो निष्क्रान्तस्य पुरुषाकारस्य धन्विनो यज्ञस्य शिर इन्द्रो वम्रिरूपेण ज्याघातनद्वारा पुरा चिच्छेद। तदभिप्रायेणेदमुक्तम्। श्रूयते हि। तस्येन्द्रो वम्रिरूपेण धनुर्ज्यामच्छिनद्रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेश स प्रवर्ग्योऽभवदिति। सत्वं सोमिनः सोमवतो मम ग्रुहमगच्छः। आगच्छः॥२॥