मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७१, ऋक् ३

संहिता

त्वं त्यमि॑न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् ।
मुहु॑ः श्रथ्ना मन॒स्यवे॑ ॥

पदपाठः

त्वम् । त्यम् । इ॒न्द्र॒ । मर्त्य॑म् । आ॒स्त्र॒ऽबु॒ध्नाय॑ । वे॒न्यम् ।
मुहुः॑ । श्र॒थ्नाः॒ । म॒न॒स्यवे॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं त्यं तं मर्त्यं मनुष्यं वेन्यं वेनस्य पुत्रं पृथुमास्त्रबुध्नाय। अस्त्रबुध्नो नाम कश्चित्। तस्य पुत्राय मनस्यवे मननीयं स्तोत्रमिच्छते मुहुः शश्वच्छ्रथ्नाः। अहिंसीः। वशमनय इत्यर्थः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९