त्वं त्यमि॑न्द्र॒ सूर्यं॑ प॒श्चा सन्तं॑ पु॒रस्कृ॑धि ।
दे॒वानां॑ चित्ति॒रो वश॑म् ॥
त्वम् । त्यम् । इ॒न्द्र॒ । सूर्य॑म् । प॒श्चा । सन्त॑म् । पु॒रः । कृ॒धि॒ ।
दे॒वाना॑म् । चि॒त् । ति॒रः । वश॑म् ॥
हे इन्द्र त्वं त्यं सूर्यमस्तसमये पश्चा पश्चात्सन्तं भवन्तं पुरः परेद्युरुदयकाले पुरस्तात्कृधि। करोषि। लकारव्यत्ययः। कीदृशम् । देवानां चिद्देवानामपि तिरस्तिरोहितं तैरपि क्व गत इति दुर्विज्ञातं वशं कान्तम्॥४॥