मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७२, ऋक् १

संहिता

आ या॑हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ॥

पदपाठः

आ । या॒हि॒ । वन॑सा । स॒ह । गावः॑ । स॒च॒न्त॒ । व॒र्त॒निम् । यत् । ऊध॑ऽभिः ॥

सायणभाष्यम्

आ याहीति चतुरृचमेकविंशं सूक्तमाङ्गिरसस्य संवर्तस्यार्षमुषोदेवताकम्। चतस्रोऽपि विंशतिका द्विपदा विराजः। तथा चानुक्रान्तम्। आ याहि संवर्त उषस्यं द्वैपदमिति। प्रथमे छन्दोमे वैश्वदेवसूक्तात्पूर्वमिदं सूक्तम्। सूत्रितं च। आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपादासूक्तानि। आ. ८-७। इति। महाव्रतेऽपि निष्केवल्य एतत्। तथैव पञ्चमारण्यके सूत्रितम् । ऐ. आ. ५-२-२॥

हे उषः वनसा वननीयेन तेजसा धनेन सार्धमा याहि। आगच्छ। गाव उषसो वाहनभूता वर्तनिं रथं सचन्त। सेवन्ते। अतस्तेन रथेनायाहीत्यर्थः। यद्या गाव ऊधभिरुपलक्शिताः प्रभूताः। पीना इत्यर्थः। ता गाव इति सम्बन्धः॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०