मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७२, ऋक् २

संहिता

आ या॑हि॒ वस्व्या॑ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥

पदपाठः

आ । या॒हि॒ । वस्व्या॑ । धि॒या । मंहि॑ष्ठः । जा॒र॒यत्ऽम॑खः । सु॒दानु॑ऽभिः ॥

सायणभाष्यम्

हे उषः वस्व्या प्रशस्तया धियानुग्रहबुद्ध्या कर्मना स्तुत्या वा सार्धमायाहि। आगच्छ। स चोषः कालः सुदानुभिः शोभनदानैर्दातृभिः पुरुषैर्मंहिष्ठो धनानां दातृतमः अत एव जारयन्मखः समापयद्यज्ञश्च भवति॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०