मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७२, ऋक् ३

संहिता

पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑व॒ः प्रति॑ दध्मो॒ यजा॑मसि ॥

पदपाठः

पि॒तु॒ऽभृतः॑ । न । तन्तु॑म् । इत् । सु॒ऽदान॑वः । प्रति॑ । द॒ध्मः॒ । यजा॑मसि ॥

सायणभाष्यम्

पितृभृतो नान्नस्य भर्तार इव सुदानवः शोभनदाना वयं तन्तुमित्तन्तुं विस्तीर्णमेव प्रति दध्मः। उषसं प्रत्युपायनरूपेण धारयामः। तेन च यज्ञेन तामुषसं यजामसि॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०