मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७२, ऋक् ४

संहिता

उ॒षा अप॒ स्वसु॒स्तम॒ः सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥

पदपाठः

उ॒षाः । अप॑ । स्वसुः॑ । तमः॑ । सम् । व॒र्त॒य॒ति॒ । व॒र्त॒निम् । सु॒ऽजा॒तता॑ ॥

सायणभाष्यम्

दशमेऽहनि प्रातरनुवाक उषस्ये क्रतावुषो भद्रेभिरित्यस्याः स्थान उषा अप स्वसुरित्येषा। सूत्रितं च। उषा आप स्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये। आ. ८-१२। इति॥

इयमुषाः स्वसुर्भगिन्या रात्रेः सम्बन्धि तमोऽन्धकारमप सं वर्तयति। आत्मीयेन तेजसापगमयति। सुजातता सुजातत्वमात्मनः सुप्रजातत्वम् च वर्तनिं रथं प्रापयति॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०