इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम ।
उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी॑रे॒ मा वा॒मेतौ॒ मा परे॑तौ रिषाम ॥
इन्द्र॑स्यऽइव । रा॒तिम् । आ॒ऽजोहु॑वानाः । स्व॒स्तये॑ । नाव॑म्ऽइव । आ । रु॒हे॒म॒ ।
उर्वी॒ इति॑ । न । पृथ्वी॒ इति॑ । बहु॑ले॒ इति॑ । गभी॑रे॒ इति॑ । मा । वा॒म् । आऽइ॑तौ । मा । परा॑ऽइतौ । रि॒षा॒म॒ ॥
इन्द्रस्येव तार्क्ष्यस्य रातिं दानमाजोहुवानाः पुनः पुनराह्वयन्तो वयम् स्वस्तयेऽविनाशाय नावमिव नौर्यथा दुरवगाहं समुद्रं तारयति तथा दुःखस्य तारयित्रीं तामा रुहेम। आरूढा भूयास्म। रुहेराशीर्लिङि लिङ्याशिष्यङ्। हे उर्वी उर्व्यौ विस्तीर्णे हे पृथ्वी पृथिवी प्रथिते विख्याते हे बहुले अनन्ते गभीरे गाम्भीर्योपेते ईदृषौ हे द्यावापृथिव्यौ। नशब्दः सम्प्रत्यर्थे। सम्प्रति वां युवयोः सम्बन्धिन्येतौ तार्क्ष्यस्यागमे परेतौ परागमने च वयं मा रिषाम। हिंसिता मा भूम। आङ् पराभ्यामुत्तरस्येणो भावे क्तिन्। तादौ च नितीति गतेः प्रकृतिस्वरत्वम्॥२॥