स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ ।
स॒ह॒स्र॒साः श॑त॒सा अ॑स्य॒ रंहि॒र्न स्मा॑ वरन्ते युव॒तिं न शर्या॑म् ॥
स॒द्यः । चि॒त् । यः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒तान॑ ।
स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । अ॒स्य॒ । रंहिः॑ । न । स्म॒ । व॒र॒न्ते॒ । यु॒व॒तिम् । न । शर्या॑म् ॥
यश्चिद्योऽपि तार्क्ष्यः सद्यह् शीघ्रं शवसात्मीयेन बलेनाप उदकान्यमृतलक्षणानि ततान विस्तारितवान् सूर्य इव यथा सूर्यः सर्वस्य प्रेरक आदित्यो ज्योतिषात्मीयेन तेजसा वर्षर्तावपो विस्तारयति तद्वत्। कृष्टयो मनुष्याः। पञ्चकृष्टीः पञ्चविधान्कृष्टीन्मनुष्यान्प्रति। निषादपञ्चमांश्चतुरो वर्नानित्यर्थः। अस्य तार्क्ष्यस्य रंहिर्गतिः सहस्रसाः सहस्रसंख्यस्य धनस्य दात्री सम्भक्त्री वा भवति। तथा शतसा शतस्य च दात्री सम्भक्त्री वा भवति। सनतेः सनोतेर्वा जनसनखनेति विट्। विड्वनोरनुनासिकस्यादित्यात्वम् । न स्म न खल्वीदृशीं तार्क्ष्यस्य ते गतिं वरन्ते। के चन वारयन्ति। तत्र दृष्टान्तः। शर्यां शरकाण्डमयीमिषुं धनुषो मुक्ताम् युवतिं न लक्ष्येण मिश्रीभवन्तीमिव। सा यथा दुर्निवारा तथैषा कैश्चिदपि वारयितुमशक्येत्यर्थः। अत्र निरुक्तम्। सद्योपि यः शवसा बलेन्द् तनोत्यपः सूर्य इव ज्योतिषा पञ्च मनुष्यजातानि सहस्रसानिनी शतसानिन्यस्य सा गतिर्न स्मैनां वारयन्ति प्रयुवतीमिव शरमयीमिषुम्। नि. १०-२९। इति॥३॥