उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म् ।
यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा॑तो मम॒त्तन॑ ॥
उत् । ति॒ष्ठ॒त॒ । अव॑ । प॒श्य॒त॒ । इन्द्र॑स्य । भा॒गम् । ऋ॒त्विय॑म् ।
यदि॑ । श्रा॒तः । जु॒होत॑न । यदि॑ । अश्रा॑तः । म॒म॒त्तन॑ ॥
उत्तिष्ठतेति तृचमष्टाविंशम् सूक्तमैन्द्रम्। आद्यानुष्टुप् शिष्टे त्रिषुभौ। उशीनरपुत्रः शिविर्नाम राजा प्रथमाया ऋषिः। काशीनामधिपतिः प्रतर्दनो नाम द्वितीयायाः। रोहिदश्वपुत्रो वसुमना नाम तृतीयायाः । तथा चानुक्रान्तम्। उत्तिष्ठतैकर्चाः शिबिरौशीनरः काशिराजः प्रतर्दनो रौहिदश्वो वसुमना आद्यानुष्टुबिति। दधिघर्म आद्या वक्तव्या। सूत्रितम् च। होतर्वदस्वेत्युक्त उत्तिष्थताव पश्यतेत्याह॥ आ. ५-१३। इति॥
हे ऋत्विजः उत्तिष्थत। आसनादूर्ध्वमुत्तिष्थत। नोपविशत। ऊर्ध्वकर्मत्वादात्मनेपदाभावः। पा. १-३-२४। उत्थायर्त्वियमृतौ वसन्तादिकाले भवमिन्द्रस्य भागम् भजनीयं दधिघर्मं पच्यमानमव पश्यत। निरीक्षध्वम्। ऋतुशब्दाद्भवार्थे छन्दसि घस्। सिति चेति पदसंज्ञया भसंज्ञाया बाधादोर्गुणाभावः। भजेः कर्मनि घञन्तो भागशब्दः। कर्षात्वत इत्यन्तोदात्तद्वम्। यदि स भागः श्रातः पक्वः रथि जुहोतन। इन्द्रार्थमग्नौ जुहुत। तप्तनप्तनथनाश्चेति तस्य तनबादेशः। भीह्रीत्यादिना। पा. ६-१-१९२। पिति प्रत्ययात्पूर्वस्योदात्तत्वम्। यद्यश्रातोऽपक्वः तर्हि ममत्तन। माद्यत। यद्वा । स्तुतिभिर्मादयत। अत्र तेनैव सुत्रेण तनबादेशः॥१॥