मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७९, ऋक् २

संहिता

श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् ।
परि॑ त्वासते नि॒धिभि॒ः सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चर॑न्तम् ॥

पदपाठः

श्रा॒तम् । ह॒विः । ओ इति॑ । सु । इ॒न्द्र॒ । प्र । या॒हि॒ । ज॒गाम॑ । सूरः॑ । अध्व॑नः । विऽम॑ध्यम् ।
परि॑ । त्वा॒ । आ॒स॒ते॒ । नि॒धिऽभिः॑ । सखा॑यः । कु॒ल॒ऽपाः । न । व्रा॒जऽप॑तिम् । चर॑न्तम् ॥

सायणभाष्यम्

तस्यैव दधिघर्मस्य श्रातं हविरित्येषानुवाक्या। सूत्रितं च। श्रातं हविरित्युक्तः श्रातं हविरित्यन्वाह। आ. ५-१३। इति॥

हे इन्द्र हविर्दधिघर्माख्यं त्वदीयं श्रातम्। पक्वम्। श्रीञ् पाक इत्यस्मान्निष्थायामपस्पृधेथामित्यादौ श्राभावो निपात्यते। ओ आ उ सु सुष्थु प्र याहि। प्रकर्षेण शीघ्रमागच्छ। सुरः सूर्योऽध्वनो गन्तव्यस्य मार्गस्य विमध्यं विकलमध्यमिषदूनं मध्यभागं जगाम। गतवान्। तव यागार्थं मध्याह्नो जात इत्यर्थः। सखायः समानख्याना ऋत्विजश्च निधिभिर्निहितैरभिन्यासादितैः सोमैः सार्धं त्वा त्वां पर्यासते। पर्युपासते। तत्र दृष्टान्तः। कुलपा न कुलस्य वंशस्य रक्षकाः पुत्रा यथा व्राजपतिम्। व्राजा गन्तव्या गृहाः। तेषां पतिं चरन्तं गच्छन्तमुपासते तथेत्यर्थः। व्रज गतौ। अस्मात्कर्मणि घञ्। अजिव्रज्योश्च। पा. ७-३-६०। इति कुत्वनिषेधः। कर्षात्वत इत्यन्तोदात्तत्वे पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम्॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७