बृह॒स्पति॑र्नयतु दु॒र्गहा॑ ति॒रः पुन॑र्नेषद॒घशं॑साय॒ मन्म॑ ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
बृह॒स्पतिः॑ । न॒य॒तु॒ । दुः॒ऽगहा॑ । ति॒रः । पुनः॑ । ने॒ष॒त् । अ॒घऽशं॑साय । मन्म॑ ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥
बृहस्पतिरिति तृचमेकत्रिंशं सूक्तं ब्रुहस्पतिदेवत्यं त्रैष्तुभम्। ब्रुहस्पतिपुत्रस्तपुर्मूर्धा नामर्षिः। तथाचानुक्रान्तम्। बृहस्पतिस्तपुर्मूर्धा बार्हस्पत्यो बार्हस्पत्यमिति। गतो विनियोगः॥
बृहस्पतिर्बृहतां देवानां पतिः पालयिता। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च। म. ६-१-१५७। इति सुडागमस्तलोपश्च। उभे वनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रक्रुतिस्वरत्वम्। दुर्गहा दुर्गमनानां हन्ता स देवस्तिरो नयतु। तिरस्कर्तव्यानि पापान्यपसारयतु। अघशंसायास्माकमनर्थमाशंसमानाय पुरुशाय मन्म। मन्यतेर्दीप्तिकर्मणो मन्म। दीप्तमायुधं पुनर्नेषत्। नयतु। नयतेर्लेट्यडागमः। सिब्बहुलमिति सिप्। अपि चाशस्तिमयशस्विनं शत्रुं क्शिपतु। अस्मत्तः प्रेरयतु। दुर्मतिं दुर्बुद्धिं चापहन्। अपहन्तु। अथानन्तरं शं रोगाणां शमनं योर्भयानां यावनं च करत्॥१॥