मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८२, ऋक् ३

संहिता

तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विष॒ः शर॑वे॒ हन्त॒वा उ॑ ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥

पदपाठः

तपुः॑ऽमूर्धा । त॒प॒तु॒ । र॒क्षसः॑ । ये । ब्र॒ह्म॒ऽद्विषः॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥

सायणभाष्यम्

तपुर्मूर्धा तापकशिरस्को बृहस्पती रक्षसो ये ब्रह्मद्विषो ब्राह्मनद्वेष्टारो राक्षसाः तान्राक्षसांस्तपतु। तापयतु। दहत्वित्यर्थः। किमर्थम् । शरवे शरुम् हिंसकं रक्षसामधिपतिं हन्तवै हन्तुम्। अनुचरान्पूर्वं नाशयतु पश्चादेनमपि नाशयत्वित्यर्थः। शॄ हिंसायामित्यस्माच्छॄस्वृस्निहीत्यादिनोप्रत्ययः। निदित्यनुवृत्तेराद्युदात्तत्वम्। क्रियाग्रहनं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी। हन्तेस्तुमर्थे सेसेनिति तवैप्रत्ययः। अन्तश्च तवै युगपदित्याद्यन्तयोर्युगपदुदात्तत्वम्। उशब्दः पूरकः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०