मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८४, ऋक् २

संहिता

गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति ।
गर्भं॑ ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ॥

पदपाठः

गर्भ॑म् । धे॒हि॒ । सि॒नी॒वा॒लि॒ । गर्भ॑म् । धे॒हि॒ । स॒र॒स्व॒ति॒ ।
गर्भ॑म् । ते॒ । अ॒श्विनौ॑ । दे॒वौ । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥

सायणभाष्यम्

हे सिनीवल्येतत्संज्ञे देवि गर्भं धेहि। निषिक्तं गर्भं धारय। हे सरस्वति त्वं च निशिक्तं गर्भं धारय। हे जाये पुष्करस्रजा पुष्करमालिनौ स्वर्णकमलाभरणावश्विनौ देवौ ते तव गर्भमा धत्ताम्। प्रक्शिपताम्। कुरुतामित्यर्थः॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२