मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८४, ऋक् ३

संहिता

हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ ।
तं ते॒ गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥

पदपाठः

हि॒र॒ण्ययी॒ इति॑ । अ॒रणी॒ इति॑ । यम् । निः॒ऽमन्थ॑तः । अ॒श्विना॑ ।
तम् । ते॒ । गर्भ॑म् । ह॒वा॒म॒हे॒ । द॒श॒मे । मा॒सि । सूत॑वे ॥

सायणभाष्यम्

हिरण्ययी हिरण्मय्यावरणी यं गर्भमुद्दिश्याश्विनाश्विनौ देवौ निर्मन्थतः निर्मथितवन्तौ हे जाये ते तुभ्यं त्वदर्थं तं गर्भं हवामहे। आह्वयामहे। दशमे मासि सूतवे प्रसोतुम्। पद्दन्नित्यादिना मासशब्दस्य मास्भावः। सूतेस्तुमर्थे सेसेनिति तवेन्प्रत्ययः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२