मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८५, ऋक् १

संहिता

महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः ।
दु॒रा॒धर्षं॒ वरु॑णस्य ॥

पदपाठः

महि॑ । त्री॒णाम् । अवः॑ । अ॒स्तु॒ । द्यु॒क्षम् । मि॒त्रस्य॑ । अ॒र्य॒म्णः ।
दुः॒ऽआ॒धर्ष॑म् । वरु॑णस्य ॥

सायणभाष्यम्

महीति तृचं चतुस्त्रिंशं सूक्तं वरुणपुत्रस्य सत्यधृतेरार्षं गायत्रमादित्यदेवताकम्। तथा चानुक्रान्तम्। महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनं गायत्रं वा इति। धनलिप्सया प्रसन्तं शिष्यमाचार्योऽनेन सूक्तेनाभिमन्त्रयते। सूत्र्यते हि। महि त्रीणामित्यनुमन्त्रैवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते। आ. गृ. १०-७-८। इति॥

त्रीणां त्रयाणां मित्रस्यार्यम्णो वरुणस्य च द्युक्षं दीप्तं अत एव दुराधर्षमन्यैर्धर्षितुं बाधितुमशक्यं महि महदवो रक्षणमस्माकमस्तु। त्रीणामित्यपि छन्दसि दृश्यत इति वचनात्। का. ७-१-५३-१। त्रयादेशाभावः। नामन्यतरस्यामिति नाम उदात्तत्वम्॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३