मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८७, ऋक् १

संहिता

प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

पदपाठः

प्र । अ॒ग्नये॑ । वाच॑म् । ई॒र॒य॒ । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् ।
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

प्राग्नय इति पञ्चर्चं षट्त्रिंशं सूक्तम्। अग्नेः पुत्रस्य वत्सस्यार्षं गायत्रमाग्नेयम्। तथा चानुक्रान्तम्। प्राग्नये पञ्चाग्नेयो वत्स आग्नेयं त्विति। प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदमादिके द्वे सूक्ते। सूत्र्यते हि। प्राग्नये वाचमिति सूक्ते इमां मे अग्ने समिधम् । आ. ४-१३। इति। दशरात्रस्य नवमेऽहन्याग्निमारुत इदं जातवेदसं निविद्धानम्। सूत्रितं च। मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम्। आ. ८-११। इति॥

हे स्तोतः अग्नये स्तुतिरूपां वाचं प्रेरय। उच्चारय। कथंभूताय। क्षितीनां मनुष्याणां यजमानानां वृषभाय कामानां वर्षित्रे। किं प्रयोजनमिति चेत्। सोऽग्निर्नोऽस्मान्द्विषो द्वेष्टॄनति पर्षत्। अतिपारयेत्॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५