मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८७, ऋक् २

संहिता

यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

पदपाठः

यः । पर॑स्याः । प॒रा॒ऽवतः॑ । ति॒रः । धन्व॑ । अ॒ति॒ऽरोच॑ते ।
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

योऽग्निः परस्याः परावतोऽतिशयिताद्दूरदेशात्तिरः। प्राप्तनामैतत्। प्राप्तसम्बन्धं धन्व मरुभूमिं जलवर्जितं देशमतिरोचते अतिक्रम्य प्रज्वलति। यद्वा। धन्वान्तरिक्षम् । धन्वान्तरिक्षं तिरस्तिर्यगतिरोचते भृशं प्रकाशयते। गतमन्यत्॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५