प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म् ।
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
प्र । नू॒नम् । जा॒तऽवे॑दसम् । अश्व॑म् । हि॒नो॒त॒ । वा॒जिन॑म् ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥
प्र नूनमिति तृचं सप्तत्रिंशं सूक्तम्। अग्निपुत्रस्य श्येनस्यार्षं गायत्रं जातवेदोगुणकोऽग्निर्देवता। तथा चानुक्रान्तम्। प्र नूनं तृचमाग्नेयः श्येनो जातवेदस्यमिति। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः॥
जातवेदसं जातानां वेदितारं जातधनादिकं वाश्वं कर्मभिर्व्याप्नुवन्तं वाजिनमन्नवन्तं हे ऋत्विग्यजमानाः नूनमवश्यं प्र हिनोत। प्रवर्धयत। यद्वा। अश्वमिव स्तुतिभिः प्रेरयत। हि गतौ वृद्धौ च। अस्माल्लोटि तशब्दस्य तप्तनप्तनथनाश्चेति तबादेशः। किमर्थम्। नोऽस्माकमिदं बर्हिरास्तीर्णमासद आसत्तुं प्राप्तुम्। बर्हिरासीदत्वित्यर्थः। सदेः कृत्यार्थे तवैकेनिति केन्प्रत्ययः॥१॥