मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८९, ऋक् ३

संहिता

त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते ।
प्रति॒ वस्तो॒रह॒ द्युभि॑ः ॥

पदपाठः

त्रिं॒शत् । धाम॑ । वि । रा॒ज॒ति॒ । वाक् । प॒त॒ङ्गाय॑ । धी॒य॒ते॒ ।
प्रति॑ । वस्तोः॑ । अह॑ । द्युऽभिः॑ ॥

सायणभाष्यम्

त्रिंशद्धाम धामानि स्थानानि। वचनव्यत्ययः। वस्तोर्वासरस्याहोरात्रस्यावयवभुतानि। अहशब्दोऽवधारणे। द्युभिः सूर्यस्य दीप्तिभिरेव वि राजति। व्राजन्ते। विशेषेण दीप्यन्ते। व्यत्ययेनैकवचनम्। मुहूर्तान्यत्र धामान्युच्यन्ते। पञ्चदश रात्रेः पञ्चदशाह्नः। पतङ्गाय। पतति गच्छतीति पतङ्गः सूर्यः। तस्मै श्रुतिरूपा वाक् प्रति धीयते। प्रतिमुखं स्तोतृभ्यः क्रियते। यद्वा। वस्तोरहनित्रिंशद्धामानि। घटिकाभिप्रायमेतत्। त्रिंशद्घटिकाः। अत्यन्तसंयोगे द्वितीया। एतावन्तं कालं द्युभिर्दीप्तिभिरसौ सूर्यो वि राजति। विशेषेन दीप्यते। तस्मिंश्च समये वाक् त्रयीरूपा तस्मै सूर्यरुपाय पतङ्गाय प्रति धीयते। प्रतिमुखं धार्यते। स्तूयते सूर्यः सर्वत इत्यर्थः। श्रूयते हि। ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्न इत्यादि। तै. ब्रा. ३-१२-९-१। यदा त्विदं सूक्तं सार्पराज्ञ्या आत्मस्तुतिः तदा सूर्यात्मना स्तूयत इत्यवगन्तव्यम्॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७