मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९१, ऋक् १

संहिता

संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।
इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥

पदपाठः

सम्ऽस॑म् । इत् । यु॒व॒से॒ । वृ॒ष॒न् । अग्ने॑ । विश्वा॑नि । अ॒र्यः । आ ।
इ॒ळः । प॒दे । सम् । इ॒ध्य॒से॒ । सः । नः॒ । वसू॑नि । आ । भ॒र॒ ॥

सायणभाष्यम्

संसमिति चतुरृचं चत्वारिंशं सूक्तं संवननस्यार्षम्। समानो मन्त्र इति तृतीया त्रिष्टुप् शिष्टास्तिस्रोऽनुष्टुभः। प्रथमाया अग्निर्देवता। शिष्टानां संज्ञानम्। अनुक्रम्यते च। संसं चतुष्कं संवननः संज्ञानमाद्याग्नेयी तृतीया त्रिष्टुप् तृतीया त्रिष्टुबिति। अनुष्तुभम् त्विति पूर्वमुक्तत्वादवशिष्टानामनुष्टुप्त्वम्। सूक्तविनियोगो लैङ्गिकः॥

हे व्रुषन्कामानां वर्षितरग्ने अर्य ईश्वरस्त्वम्। अर्यः स्वामिवैश्ययोः। पा. ३-१-१०३। इति यत्प्रत्ययान्तो निपातितः। अर्यः स्वाम्याख्यायाम् । फि . १-१८। इत्यन्तोदात्तत्वम्। स त्वं विश्वानि सर्वाणि भूतजातानि संसम्। प्रसमुपोदः पादपूरने। पा. ८-१-६। इति समो द्विर्वचनम्। इच्छब्दोऽवधारने। आ समन्तात्सं युवसे। मिश्रयसि। देवेषु मध्ये त्वमेव सर्वाणि भूतजातानि वैश्वानरात्मना व्याप्नोषि। नान्य इत्यर्थः। किं चेळ इडायाः पृथिव्याः पदे स्थान उत्तरवेदिलक्षणे। एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः। ऐ. ब्रा. १-२८। इति ब्राह्मनम्। तत्र त्वं समिध्यसे। ऋत्विग्भिः सन्दीप्यसे। स ताद्रुशस्त्वं नोऽस्माकं वसूनि धनान्या भर। आहर॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९