मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९१, ऋक् २

संहिता

सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् ।
दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥

पदपाठः

सम् । ग॒च्छ॒ध्व॒म् । सम् । व॒द॒ध्व॒म् । सम् । वः॒ । मनां॑सि । जा॒न॒ता॒म् ।
दे॒वाः । भा॒गम् । यथा॑ । पूर्वे॑ । स॒म्ऽजा॒ना॒नाः । उ॒प॒ऽआस॑ते ॥

सायणभाष्यम्

हे स्तोतारः यूयम् सं गच्छध्वम्। सङ्गताह् सम्भूता भवत। समो गम्यृच्छीत्यादिना गमेरात्मनेपदम्। तथा सम् वदध्वम्। सह वद परस्परम् विरोधं परित्यज्येकविधमेव वाक्यं ब्रूतेति यावत्। व्यक्तवाचाम् समुच्चारने। पा. १-३-४८। इति वदेरात्मनेपदम्। वो युष्माकं मनाम्सि सं जानताम्। समानमेकरूपमेवार्थमवगच्छन्तु। सम्प्रतिभ्यामनाध्याने। पा. १-३-४६। इति जानतेरात्मनेपदम्। यथा पूर्वे पुरातना देवाः सञ्जानाना ऐकमत्यम् प्राप्ता हविर्भाअगमुपासते यथास्वम् स्वीकुर्वन्ति तथा यूयमपि वैमत्यं परित्यज्य धनं स्वीकुरुतेति शेषः॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९