मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९१, ऋक् ३

संहिता

स॒मा॒नो मन्त्र॒ः समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे॑षाम् ।
स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥

पदपाठः

स॒मा॒नः । मन्त्रः॑ । सम्ऽइ॑तिः । स॒मा॒नी । स॒मा॒नम् । मनः॑ । स॒ह । चि॒त्तम् । ए॒षा॒म् ।
स॒मा॒नम् । मन्त्र॑म् । अ॒भि । म॒न्त्र॒ये॒ । वः॒ । स॒मा॒नेन॑ । वः॒ । ह॒विषा॑ । जु॒हो॒मि॒ ॥

सायणभाष्यम्

पुर्वोऽर्धर्चः परोक्षकृतः उत्तरः प्रत्यक्षकृतः। एषामेकस्मिन्कर्मणि सह प्रवृत्तानामृत्विजां स्तोतॄणां वा मन्त्रः स्तुतिः शस्त्राद्यात्मका गुप्तभाषणम् वा समान एकविधोऽस्तु। तथा समितिः प्राप्तिरपि समान्येकरूपास्तु। केवलमामकेत्यादिना समानशब्दाद्ङीप्। उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। तथा मनो मननसाधनमन्तः करणं चैषां समानमेकविधमप्यस्तु। चित्तं विचारजं ज्ञानं तथा सह सहितं परस्परस्यैकार्थेनैकीभूतमस्तु। अहं च वो युष्माकं समानमेकविधं मन्त्रमभिमन्त्रये। ऐकविध्याय संस्करोमि। तथा वो युश्माकं स्व भूतेन समानेन साधारणेन हविषा चरुपुरोडाशादिनाहं जुहोमि। तृतीया च होश्छन्दसि। पा. २-३-३। इति कर्मणि कारके तृतीया। वषट्कारेण हविः प्रक्षेपयामीत्यर्थः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९