मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९१, ऋक् ४

संहिता

स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒ः सुस॒हास॑ति ॥

पदपाठः

स॒मा॒नी । वः॒ । आऽकू॑तिः । स॒मा॒ना । हृद॑यानि । वः॒ ।
स॒मा॒नम् । अ॒स्तु॒ । वः॒ । मनः॑ । यथा॑ । वः॒ । सुऽस॑ह । अस॑ति ॥

सायणभाष्यम्

हे ऋत्विग्यजमानाः वो युष्माकमाकूतिः सङ्कल्पोऽध्यवसायः समान्येकविधोऽस्तु। तथा वो युष्माकं हृदयानि समानान्येकविधानि सन्तु। तथा वो युष्माकं मनोऽन्तःकरणम्। प्रत्येकापेक्षयैकवचनम्। तदपि समानमस्तु। यथा वो युश्माकं सुसह शोभनं साहित्यमसति भवति तथा समानमस्त्वित्यन्वयः। अस्तेर्लटि बहुलं छन्दसीति शपो लुगभावः॥४॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके अष्टमोऽध्यायः समाप्तः॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९