मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् ८

संहिता

न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्यापः॑ ।
याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महि॑ः पत्सुत॒ःशीर्ब॑भूव ॥

पदपाठः

न॒दम् । न । भि॒न्नम् । अ॒मु॒या । शया॑नम् । मनः॑ । रुहा॑णाः । अति॑ । य॒न्ति॒ । आपः॑ ।
याः । चि॒त् । वृ॒त्रः । म॒हि॒ना । प॒रि॒ऽअति॑ष्ठत् । तासा॑म् । अहिः॑ । प॒त्सु॒तः॒शीः । ब॒भू॒व॒ ॥

सायणभाष्यम्

अमुयामुष्यां पृथिव्यां शयानं पतितं मृतं वृत्रमापो जलान्यतियंति । अतिक्रम्य गच्छंति । तत्र दृष्टांतः । भिन्नं बहुधाभिन्नकूलं नदं न सिंधुमिव । यथा वृष्टिकाले प्रभूता आपो नद्याः कूलं भित्वातिक्रम्य गच्छंति तद्वत् । कीदृशः आपः । मनो रुहाणाः । नृणां चित्तमारोहंत्यः । पुरा वृत्रे जीवति सति तेन निरुद्धा मेघस्थिता आपो भूमौ वृष्टा न भवंति । तदानीं नृणां मनः खिद्यते । मृते तु वृत्रे निरोधरहिता आपो वृत्रशरीरमुल्लंघ्य प्रवहंति । तदा वृष्टिलाभेन तु मनुष्यास्तुष्यंतीत्यर्थः । तदेतदुत्तरार्धेन स्पष्वीक्रियते । वृत्रो जीवनदशायां महिना स्वकीयेन महिम्ना याश्चिद्या एव मेघगता अपः पर्यतिष्ठत् परिवृत्य स्थितवान् अहिर्वृत्रो मेघस्तासामपां पत्सुतःशीः पादस्याधःशयानो बभूव । यद्यप्यपां पादो नास्ति तथाप्यद्भिर्वृत्रस्याभिलंघितत्वात्पादस्याधःशयनमुपपद्यते ॥ भिन्नम् । रदाभ्यां निष्ठातो नः (पा ८-२-४२) इति नत्वम् । अमुया । सुपां सुलुगिति सप्तम्या याजादेशः । शयानम् । शीङः सार्वधातुके गुणः (पा ७-४-२१) धातोर्ङित्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । रुहाणाः । रुह बीजजन्मनि प्रादुर्भावे । व्यत्ययेन शानच् । कर्तरि शपि प्राप्ते व्यत्ययेन शः । अनित्यमागमशासनमिति वचनान्मुगभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरे प्राप्ते व्यत्ययेन धातुस्वरः । महिना । मह पूजायाम् । इन्सर्वाधातुभ्यः (उ ४-११७) इतीन्प्रत्ययः । व्यत्ययेन विभक्तेरुदात्तत्वम् । यद्वा । महिना महिम्ना । महच्छब्दस्य पृथ्वादिषु पाठात्तस्य भाव इत्येतस्मिन्नर्थे पृथ्वादिभ्य इमनिज्वा (पा ५-१-१२२) इतीमनिच् प्रत्ययः । टीरिति टलोपः । चित इत्यंतोदात्तत्वम् । तृतीयैकवचनेऽल्लोपे सत्युदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । मकारलोपश्छांदसः । पत्सुतःशीः । पादस्याधः शेत इति पत्सुतःशीः । क्विप्चेति क्विप् । तसि पद्दन्नित्यादिना पादशब्दस्य पदादेशः । शस्प्रभृतिष्विति प्रभृतिशब्दः प्रकारवचन इति शला दोषणीत्यत्रापि दोषन्नादेशो भवति । का ६-१-६३ । इत्युक्तत्वात् । मध्ये सु इति शब्दोपजनश्छांदसः । यद्वा । पादशब्दस्य सप्तमीबहुवचने पदादेशे कृत इतराभ्योऽपि दृश्यंते (पा ५-३-१४) इति सप्तम्यर्थे तसिल् । लुगभावश्छांदसः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७