मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् ४

संहिता

त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒ः शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । वरु॑णस्य । वि॒द्वान् । दे॒वस्य॑ । हेळः॑ । अव॑ । या॒सि॒सी॒ष्ठाः॒ ।
यजि॑ष्ठः । वह्नि॑ऽतमः । शोशु॑चानः । विश्वा॑ । द्वेषां॑सि । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥

सायणभाष्यम्

त्वन्नो अग्ने इत्येतदारभ्येदं सूक्तमुत्तराणि सूक्तानि च प्रातरनुवाक अग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे च विनियुक्तानि । सूत्रितं च । त्वं नो अग्ने वरुणस्य विद्वानित्येतत्प्रभृतीनि चत्वारि । आ. ४-१३ । इति । अवभृथेष्ट्यां स्विष्टकृदर्थेऽग्नीवरुणौ यष्टव्यौ । तत्र त्वं नो अग्न इति द्वे याज्यानुवाक्ये । सूत्रितं च । अग्नीवरुणौ स्विष्टकृदर्थे त्वन्नो अग्ने वरुणस्य विद्वानिति द्वे । आ. ६-१३ । इति । अस्नातो यद्यग्निहोत्रं जुहुतात्तदाग्निवारुणीष्टिः । तस्यामेते एव याज्यानुवाक्ये । तदाहुर्य आहिताग्निरित्युपक्रम्याम्नातम् । तस्य याज्यानुवाक्ये त्वं नो अग्ने वरुणस्य विद्वान्त्स त्वं नो अग्नेऽवमो भवोती । ऐ. ब्रा. ७-९ । इति ॥

हे अग्ने विद्वान् सर्वपुरुषार्थसाधनोपायज्ञस्त्वं देवस्य द्योतमानस्य वरुणस्य हेळः क्रोधान् नोऽस्मत्सम्बन्धिनो वरुणकर्तृकान्पाशग्रहणानव यासिसीष्ठाः । अपनय । किञ्च यजिष्ठो यष्टृतमो वह्नितमो हविषामतिशयेन वोढा शोशुचानोऽतिशयेन दीप्यमानस्त्वं विश्वा सर्वाणि द्वेषांसि पापानि द्वेष्टॄणि रजांसि वा अस्मदस्मत्तः प्र मुमुग्धि । प्रकर्षेण मोचय । हेळः । हेडृ अनादरे । क्विप् । शसि रूपम् । शसः सुस्त्वादनुदात्तत्वे धातुस्वरः । यासिसीष्ठाः । यसेर्ण्यन्तादाशीर्लिङ् । थासि सीयुडागमः । छन्दस्युभयथेति लिङः सार्वधातुकत्वाण्णिलोपाभावः । अवपूर्वो यासिर्विनाशे वर्तते । मुमुग्धि । मुञ्चतेर्लोटि रूपम् । बहुलं छन्दसीति शपः श्लुः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२