क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
दक्षं॑ दधाते अ॒पस॑म् ॥
क॒वी इति॑ । नः॒ । मि॒त्रावरु॑णा । तु॒वि॒ऽजा॒तौ । उ॒रु॒ऽक्षया॑ ।
दक्ष॑म् । द॒धा॒ते॒ इति॑ । अ॒पस॑म् ॥
मित्रावरुणावेतौ देवौ नोऽस्माकां दक्षं बलमपसं कर्म च दधाते । पोषयतः । कीदृशौ । कवी मेधाविनौ तुविजातौ बहूनामुपकारकतया समुत्पन्नौ उरुक्षया बहुनिवासौ । विप्रो धीर इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु कविर्मनीषीति पठितम् । उरु तुवीत्येतौ शब्दौ द्वादशसु बहुनामसु पठितौ । ओजः पाज इत्यादिष्टष्टाविंशतिसंख्याकेषु बलनामसु दक्षो वीळ्विति पठितम् । अपस् शब्दः षड्विंशतिसंख्याकेषु कर्मनामसु पठितः । मित्रावरुणा । मित्रशब्दः प्रातिपदिकस्वरेणांतोदात्तः । वरुणशब्दो नित्स्वरेणाद्युदात्तः । द्वंद्वे देवताद्वंदे च (पा ६-२-१४१) इत्युभावविशिष्येते । तुविजातौ । बहूनामुपकारकतया तत्संबंधित्वेन जाताविति षष्ठीसमासे समासांतोदात्तत्वम् । चतुर्थीसमासे हि क्ते च (पा ६-२-४५) इति पूर्वपदप्रकृतिस्वरः स्यात् । उरूणां बहूनां क्षयावुरुक्षयौ । क्षि निवासगत्योरिति धातोः क्षियंत्यस्मन्निति क्षयः । अधिकरण एरच् (पा ३-३-५६) इत्यच् प्रत्ययांतस्य चित इत्यंतोदात्तत्वे प्राप्ते क्षयो निवासे (पा ६-१-२०१) इत्याद्युदात्तत्वं विहितम् । समासे तु समासस्येत्यंतोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण प्राप्तमुत्तरपदाद्युतात्तत्वं यद्यपि थाथादिस्वरेणांतोदात्तेन बाध्यते तथापि परादिश्चंदसि बहुलम् (पा ६-२-१९९) इत्युत्तरपदाद्युत्तत्वं द्रष्टव्यम् । दक्षो दक्षतेरुत्साहकर्मणो घञ् । ञॆत्त्वादाद्युदात्तः । आप्यते फलमनेनेत्यपः कर्म । आपः कर्माख्यायां ह्रस्वो नुट्च वा (उ ४-२०७) इत्यसुनंतस्यापसस्पारे । ऋग्वे ६-६९-१ । इत्यादौ नित्त्वादाद्युदात्तस्याप्यपश्शब्दस्यात्र व्यत्ययेन प्रत्ययाद्युदात्तत्वं ॥ ४ ॥ ॥ ९ ॥