तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।
धना॑नामिन्द्र सा॒तये॑ ॥
तम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑मः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥
हे शतक्रतो बहुकर्मयुक्त यद्वा बहुप्रज्ञानयुक्तेंद्र धनानां सातये संभजनार्थं वाजेषु युद्धेषु वाजिनं बलवंतं त्वा पूर्वमंत्रोक्तगुणयुक्तं त्वां वाजयामः । अन्ववंतं कुर्मः । रण इत्यादिषु षट्चत्वारिंशत्सु संग्रामनामसु पौंस्ये महाधने वाजेऽग्मन्निति पठितम् । अष्टाविंशतिसंख्याकेष्वन्ननामस्वंधो वाजः पाज इति पठितम् । उरु तुवीत्यादिषु द्वादशसु बहुनामसु शतं सहस्रमिति पठितम् । अपोऽप्न इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु शक्म क्रतुरिति पठितम् । केतः केतुरित्यादिष्वेकादशसु प्रज्ञानामसु क्रतुरसुरिति पठितं ॥ त्वा । अनुदात्तं सर्वमित्यनुवृत्तौ त्वामौ द्वितीयाया इति त्वादेशः । वाजेषु । वज व्रज गतौ । वाजयति गमयति शरीरनिर्वाहमनेनेति वाजो बलमन्नं वा । ण्यंतात्करणे घञ् । तत्र ञित्स्वरस्यापवादे कर्षात्वतः (पा ६-१-१५९) इत्यंतोदात्तत्वे प्राप्ते तस्याप्यपवादत्वेन वृषादीनां च (पा ६-१-२०३) इत्याद्युदात्तत्वम् । वाजयामः । वाजोऽस्यास्तीति वाजवान् । तं कुर्म इत्यर्थे तत्करोति तदाचष्टे । पा ३-१-२६, ५-६ । इति णिच् । इष्ठवणौ प्रातिपदिकस्य । पा ६-४-१५५-१ । इति तस्मिन्परत इष्टवद्भावाद्विन्मतोर्लुक् (पा ५-३-६५) इति मतुपो लुक् । टीः (पा ६-४-१५५) इत्यकारलोपः । णिचश्चित्त्वादंतोदात्तत्त्वं शपः पित्त्वेनानुदात्तत्त्वं लसार्वधातुकस्वरेणाख्यातस्याप्यनुदात्तत्वम् । पादादित्वात्तिङ्ङतिङ इति न निघातः । शतक्रतो । आमंत्रित निघातः । धनानाम् । नब्विषयस्यानिसंतस्येत्याद्युदात्तः । सातये । उदात्त इत्यनुवृत्तावूतियूतिजूतिसातिहेतिकीर्तयश्चेति क्तिन्नुदात्तः ॥ ९ ॥