यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते ।
उ॒र्वीरापो॒ न का॒कुदः॑ ॥
यः । कु॒क्षिः । सो॒म॒ऽपात॑मः । स॒मु॒द्रःऽइ॑व । पिन्व॑ते ।
उ॒र्वीः । आपः॑ । न । का॒कुदः॑ ॥
यः कुक्षिरस्येंद्रस्योदरप्रदेशः सोमपातमोऽतिशयेन सोमस्य पातास कुक्षिः समुद्र इव पिन्वते । वर्धते । सेचनार्थो धातुरौचित्येन वृद्धिं लक्षयति । काकुदो मुखसंबंधिन्य उर्वीर्बह्व्य अपो न जलानीव । जिह्वासंबंधमास्योदकं यथा कदाचिदपि न शुष्यति तथेंद्रस्य कुक्षिः सोमपूरितो न शुष्यतीत्यर्थः । यद्यपि श्लोक इत्यादिषु सप्तपंचाशत्सु वाङ्नामसु काकुज्जिह्वेति पठितं तथाप्युदक संबंधसिद्ध्यर्थमत्र काकुच्छब्धेन मुखमुपलक्ष्यते । संबंधवाचिनस्तद्धितस्यात्र छांदसो लोपो द्रष्टव्यः ॥ सोमपातमः । सोमं पिबतीति सोमपाः । आकारो धातुस्वरेणोदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । तमपः पित्त्वादनुदात्तत्वम् । समुद्रशब्दः प्रातिपदिकत्वादंतोदात्तः । इवेन विभक्त्यलोपः पूर्वपदप्रक्कृतिस्वरत्वं च । पा २-१-४-२ । इति प्रकृतिस्वरः । पिन्वते । पिवि सेचने । इदितो नुम् धातोरिति नुमागमः । शपः पित्त्वेनानुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । उर्वीः । उरुशब्दोंऽतोदात्तः । वोतो गुणवचनात् (पा ४-१-४४) इति ङीष् । यणादेशः । उदात्तयणो हल्पूर्वात् (पा ६-१-१७४) इतीकार उदात्तः । जसा सहैकादेश उदात्तेनोदात्त इत्येकादेश उदात्तः । आपः । प्रातिपदिकस्वरः । काकुदः । प्रातिपदिकस्वरेणांतोदात्तः ॥ ७ ॥