ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही ।
प॒क्वा शाखा॒ न दा॒शुषे॑ ॥
ए॒व । हि । अ॒स्य॒ । सू॒नृता॑ । वि॒ऽर॒प्शी । गोऽम॑ती । म॒ही ।
प॒क्वा । शाखा॑ । न । दा॒शुषे॑ ॥
अभिप्लवषडहगतेषूक्थ्येषु तृतीतयसवने ब्राह्मणाच्छंसिन एवा ह्यस्य सूनृतेत्यनुरूपस्तृचः । एह्यूषु ब्रवाणि त इति खंडे अथ ब्राह्मणाच्छंसिन इत्युपक्रम्य एवा ह्यसि वीरयुरेवा ह्यत्य सूनृता (आ ७-८) इति सूत्रितं ॥
अस्येंद्रस्य सूनृता प्रियसत्यरूपा वाग्दाशुषे हविर्दत्तवते यजमानाय तदर्थमेवा हि एवं खलु । अनंतरपदवक्ष्यमाणगुणोपेता भवतीत्यर्थः । कीदृशी । विरप्शी विविधरपणोपेतवाक्ययुक्ता । बहुविधोपचारवादिनीत्यर्थः । गोमती बह्वीभिर्गोभिरुपेता । गोप्रदेत्यर्थः । अत एव मही महती पूज्या । यथोक्तवाचो दृष्टांतः । पक्वा शाखा न । यथा बहुभिः पक्वैः फलैरुपेता पनसवृक्षादिशाखा प्रीतिहेतुस्तद्वत् । यद्यपि महन्नामसु व्राधन् विरप्शीति पठितं तथाप्यत्र महीत्यनेन पुनरुक्तिप्रसंगादवयवार्थो गृहीतः ॥ एव एवमादीनामंत इत्यंतोदात्तः संहितायां निपातस्य चेति दीर्घः । हि । निपात आद्युदात्तः । अस्य । प्रकृतस्येंद्रस्य परामर्शादिदमोऽन्वादेश इत्यादिनाशादेशोऽनुदात्त इति सर्वानुदात्तः । सूनृता । ऊन परिहाणे । सुतरामूनयत्यप्रियमिति सून् । सा चासावृता सत्या चेति सूनृता प्रियसत्या वाक् । परादिश्छंदसि बहुलमित्युृकार उदात्तः । विरप्शी । विचित्रं रपणं विरप् । रप लप व्यक्तायां वाचि । संपदादित्वाद्भावे क्विप् । तदेषामस्तीति विरप्शानि वाक्यानि । तानि यस्यां वाचि संति सा वाग्विरप्शिनी । अत इनिठनावितीनिः । यस्येति च (पा ६-४-१४८) इत्यकारलोपः । अन्नेभ्यो ङीप् (पा ४-१-५) इति ङीप् । इकारः प्रत्ययस्वरेणोदात्तः । नकारलोपश्छांदसः । सवर्णदीर्घ एकादेश उदात्तेनोदात्त इत्युदात्तः । गावोऽस्यां संतीति गोमती । मतुब्ङीपौ पित्त्वादनुदात्तौ । प्रातिपदिकस्वर एव शिष्यते । मही । महती । उगितश्च (पा ४-१-६) इति ङीप् । तस्य पित्त्वादनुदात्तत्वे प्राप्ते शतुरनुमो नद्यजादी इत्यत्र बृहन्महतोरुपसंख्यानम् । पा ६-१-१७३-१ । इत्युदात्तत्वम् । अच्छब्दलोपश्छांदसः । पक्वा । डुपचष् पाके । निष्ठा (पा ३-२-१०२) इति क्तप्रत्ययः । पचो वः (पा ८-२-५२) इति वत्वम् । चोः कुः (पा ८-२-३०) इति कुत्वम् । प्रत्ययस्वरेणांतोदात्तः । टापा सह सवर्णदीर्घ एकादेश उदात्तेनोदात्त इत्युदात्तः । शाखा । शाखृ श्लाखृ व्याप्तौ । पचाद्यच् । चित्त्वादंतोदात्ते प्राप्ते वृषादेराकृतिगणत्वाद्वृषादित्वादाद्युदात्तत्वम् । दाशुषे । दाशृ दाने । दाश्वान्साह्वान्मीढ्वांश्च (पा ६-१-१२) इति निपातनात्क्वसाविडभावो द्वर्वचनाभावश्च । चतुर्थ्येकवचने यचि भम् (पा १-४-१८) इति भसंज्ञायां वसोः संप्रसारणम् (पा ६-४-१३१) इति संप्रसारणं वकारस्योकारः । परपूर्वत्वम् । शासिवसिघसीनां च (पा ८-३-६०) इति षत्वम् । प्रत्ययस्वरेणोकार उदात्तः ॥ ८ ॥