ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
इन्द्रा॑य॒ सोम॑पीतये ॥
ए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोमः॑ । उ॒क्थम् । च॒ । शंस्या॑ ।
इन्द्रा॑य । सोम॑ऽपीतये ॥
अस्येंद्रस्य स्तोमः सामसाध्यं स्तोत्रमुक्थं चर्क्साध्यं शस्त्रमुप्येवा ह्येते उभे एवंविधे खलु । किंविधे इति तदुच्यते । काम्या कामयितव्ये शंस्या ऋत्विग्भिः शंसनीये । किमर्धं शंसनमिति तदुच्यते । इंद्राय सोमपीतये । इंद्रस्य सोमपानार्थ ॥ एवा ह्यस्य । व्यवहितमंत्रे गतम् । काम्या । कमेर्णीङंतादचो यत् (पा ३-१-९७) णेरनिट (पा ६-४-५१) इति णिलोपः । तित्स्वरितमिति स्वरिते प्राप्ते यतोऽनावः (पा ६-१-२१३) इत्याद्युदात्तत्वम् । सुपो डादेशः । स्तोमः । अर्तिस्तुस्वित्यादिना (उ १-१३९) मन्प्रत्ययः उक्थम् । वच परिभाषणे । पातृतुदिवचिरचिसिचिभ्यस्थक् (उ २-७) इति थक् । कित्त्वात्संप्रसारणम् । परपूर्वत्वगुणाभावौ । शंस्या । शन्सु स्तुतौ । ण्यंतादचो यत् । यतोऽनाव इत्याद्युदात्तत्वम् । सुपो डादेशः । सोमस्य पीति सोमपीति । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । अथवा सोमस्य पीतिर्यस्येंद्रस्येति सोमपीतिरिंद्रः । बहुव्रीहौ प्रकृत्या पूर्वपदम् (पा ६-२-१) इति पूर्वपदप्रकृतिस्वरत्वं ॥ १० ॥