मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९, ऋक् ६

संहिता

ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥

पदपाठः

ये । नाक॑स्य । अधि॑ । रो॒च॒ने । दि॒वि । दे॒वासः॑ । आस॑ते ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

ये मरुतो नाकस्याधि दुःखरहितस्य सूर्यस्योपरि दिवि द्युलोके रोचने दीप्यमाने ये देवासः स्वयमपि दीप्यमाना आसते । तैर्मरुद्भिरित्यन्वयः ॥ नाकस्य । कं सुखम् । तद्यस्मिन्नास्त्यसावक इति बहुव्रीहिं कृत्वा पश्चान्नञ् । न अकोनाक इति नञ् तत्पुरुषः । नलोपो नञः (पा ६-३-७३) इति लोपो न भवति । नभ्राण् नपादित्यादिना (पा ६-३-७५) प्रकृतिभावात् । तत्पुरुषे तुल्यार्थेत्यादिना (पा ६-२-२) अव्ययपूर्वपदप्रकृतिस्वरत्वेनोदात्तत्वम् । प्रथमतस्तत्पुरुषं कृत्वा पश्चाद्बहुव्रीहावुत्तरपदांतोदात्तत्वं स्यात् । अधिशब्द उपर्यर्थे । उपसर्गप्रतिरूपको निपातः । रोचने । रुच दीप्तौ । अनुदात्तेतश्च हलादेरिति युच् । चित इत्यंतोदात्तत्वम् । दिवि । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । देवासः । आज्जसेरस्युगित्यसुक् । आसते । आस उपवेशने । अनुदात्तेत्वादात्मनेपदम् । झस्यादादेशः अदिप्रभृतिभ्यः शप इति शपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वम् । यद्वृत्तयोगान्न निघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७