उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् ।
अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल ॥
उ॒त । स्म॒ । ते॒ । व॒न॒स्प॒ते॒ । वातः॑ । वि । वा॒ति॒ । अग्र॑म् । इत् ।
अथो॒ इति॑ । इन्द्रा॑य । पात॑वे । सु॒नु । सोम॑म् । उ॒लू॒ख॒ल॒ ॥
उतापि च हे वनस्पते उलूखलरूप वृक्ष तेऽग्रमित्तव पुरत एव वातो वि वाति स्म । त्वरोपेतमुसलप्रहारैर्वायुर्विशेषेण प्रसरति खलु । अथो अनंतरं हे उलूखल इंद्रायेंद्रोपकारार्थं पातवे पातुं सोमं सुनु । सोमाभिषवं कुरु ॥ वनस्पते । पारस्करादित्वात्सुट् । कार्ये कारणशब्दः । पातवे । पा पाने । तुमर्थे सेसेनिति तवेन्प्रत्ययः । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । सुनु । उतश्च प्रत्ययादसंयोगपूर्वादिति हेर्लुक् । विकरणस्वरेणांतोदात्तत्वम् । पादादित्वादनिघातः । उलूखल । ऊर्ध्वं खमस्येत्युलूखलः । पृषोदरादिः ॥ ६ ॥