मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७१, ऋक् १

संहिता

उप॒ प्र जि॑न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑य॒ः सनी॑ळाः ।
स्वसा॑र॒ः श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती॑मु॒षसं॒ न गावः॑ ॥

पदपाठः

उप॑ । प्र । जि॒न्व॒न् । उ॒श॒तीः । उ॒शन्त॑म् । पति॑म् । न । नित्य॑म् । जन॑यः । सऽनी॑ळाः ।
स्वसा॑रः । श्यावी॑म् । अरु॑षीम् । अ॒जु॒ष्र॒न् । चि॒त्रम् । उ॒च्छन्ती॑म् । उ॒षस॑म् । न । गावः॑ ॥

सायणभाष्यम्

उप प्रेति दशर्चं सप्तमं सूक्तम् । अत्रानुक्रम्यते । उप प्रदशेति । ऋषिश्चान्यस्मादिति परिभाषया शक्तिपुत्रः पराशर ऋषिः । अनादेशपरिभाषया त्रिष्टुप् । परमाग्नेयमैंद्रादिति परिभाषितत्वादग्निर्देवता ॥ प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छंदसीदमादीनि त्रीणि सूक्तानि । अथैतस्या इति खंडे तथैव सूत्रितम् । उप प्र जिन्वन्निति त्रीणि का त उपेतिरिति सूक्ते । अ ४-१३ । इति ॥ आश्विनशस्त्रेऽपि प्रातरनुवाकातिदेशादिदमादीनि त्रीणि सूक्तानि । तथैव सूत्र्यते । एतयाग्नेयं गायत्रमुपसंतनुयात् । प्रातरनुवाकन्यायेन । आ ६-५ ॥ इति ॥

उशतीरुशत्यः कामयमानाः सनीळाः । नीळो निवासस्थानम् । समाननिवासस्थानाः । एकपाण्यवस्थानात् । स्वसार इत्यंगुलिनाम । एवंभूता अंगुलय उशंतं कामयमानमग्निं जनयो जाया नित्यमसाधारणं पतिं न भर्तारमिवोप प्र जिन्वन् । उपेत्य हविप्प्रदानादिकर्मणा प्रीणयंति । प्रीणयित्वा च चित्रं चायनीयं पूजनीयं तमग्निमंजलिबंधनेनाजुप्रन् । असेवंत । तत्र दृष्टांतः । श्यावीं श्याववर्णां रात्रिसंबंधात्कृष्णां तत उच्छंतीं सूर्यकिरणसंबंधात्तमो वर्जयंतीं आत एवारुषीमारोचमानां यद्वा शुभ्ररूपयुक्तामुषसं न उषोदेवतां गावो रश्मयो यथा सेवंते तद्वत् । यथा रश्मय उषसा नित्यसंबद्धा एवं सर्वेषु यज्ञेष्वग्निपरिचरणेनांगुलयो नित्यसंबद्धा इति तात्पर्यार्थः ॥ जिन्वन् । जिवि प्रीणनार्थः । इदित्त्वान्नुम् । लेट्यडागमः । उशतीः । वा छंदसीति पूर्व सवर्णदीर्घत्वम् । शतुरनुम इति नद्या उदात्तत्वम् । स्वसारः । असु क्षेपण इत्यस्मात्सुञ्यसेर्ऋन् (उ २-९७) इति ऋन् । न षट् स्वस्रादिभ्यः (पा ४-१-१०) इति ङीप्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् । अरुषीम् । अरुषमिति रूपनाम । ऋ गतौ । ऋहनिभ्यामुषच् । उ । ४-७३ । छंदसीवनिपाविति मत्वर्थीय ईकारः । व्यत्ययेनाद्युदात्तत्वम् । अजुष्रन् । जुषी प्रीतिसेवनयोः । तौदादिकः । लङि व्यत्ययेन परस्मैपदम् । रुडित्यनुवृत्तौ बहुलं छंदसीत्यंतादेशस्य रुडागमः ॥ १ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५