मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७९, ऋक् १०

संहिता

प्र पू॒तास्ति॒ग्मशो॑चिषे॒ वाचो॑ गोतमा॒ग्नये॑ ।
भर॑स्व सुम्न॒युर्गिरः॑ ॥

पदपाठः

प्र । पू॒ताः । ति॒ग्मऽशो॑चिषे । वाचः॑ । गो॒त॒म॒ । अ॒ग्नये॑ ।
भर॑स्व । सु॒म्न॒ऽयुः । गिरः॑ ॥

सायणभाष्यम्

हे गोतम सूक्तद्रष्टः सुम्नयुः सुम्नं धनमात्मन इच्छंस्त्वं तिग्मशोचिषे तीक्ष्णज्वालायाग्नये पूताः शुद्धा वाचोऽग्नेर्गुणान् सम्यगभिदधतीर्गिरः स्तुतीः प्रभरस्व । प्रकर्षेण संपादय ॥ तिग्मशोचिषे । तिज निशाने । युजिरुचितिजां कुत्वं च (उ १-१४५) इति मक् । तिग्मानि शोचींषि यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुम्नयुः । सुम्नशब्दात्क्यचि न छंदस्यपुत्रस्येतीत्वदीर्घयोः प्रतिषेधः । क्याच्छंदसीत्युप्रत्ययः ॥ १० ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८