ए॒ता उ॒ त्या उ॒षसः॑ के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुम॑ञ्जते ।
नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णव॒ः प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तरः॑ ॥
ए॒ताः । ऊं॒ इति॑ । त्याः । उ॒षसः॑ । के॒तुम् । अ॒क्र॒त॒ । पूर्वे॑ । अर्धे॑ । रज॑सः । भा॒नुम् । अ॒ञ्ज॒ते॒ ।
निः॒ऽकृ॒ण्वा॒नाः । आयु॑धानिऽइव । धृ॒ष्णवः॑ । प्रति॑ । गावः॑ । अरु॑षीः । य॒न्ति॒ । मा॒तरः॑ ॥
एता उ त्या इत्यष्टादशर्चमष्टमं सूक्तं गोतमस्यार्षम् । आदितश्चतस्रो जगत्यः । त्रयोदश्याद्याः षडृच उष्णिहः शिष्टा अष्टौ त्रिष्टुभः । उषा देवता । अश्विना वर्तिरित्यंत्यस्तृ चोऽश्विदेवताकः । तथा चानुक्रांतम् । एता उ त्या द्व्यूनोषस्यं चतुर्जगत्यादि षळुष्णिगंतं तृचोऽंत्य आश्विन इति ॥ सूक्तविनियोगो लैंगिकः ॥ प्रातरनुवाक उषस्ये क्रतौ जागते छंदस्याश्विनशस्त्रे चैता उ त्या इति चतस्रो विनियुक्ताः । सूत्रितं च । एता उ त्या इति चतस्रो जागतम् । अ ४-१४ । इति ॥
उ इत्येतत्पादपूरणम् । त्यास्ता एता उषसः । प्रभातकालाभिमानिन्यो देवताः केतुमंधकारावृतस्य सर्वस्य जगतः प्रज्ञापकं प्रकाशमक्रत । अकृषत । कृतवत्यः । यस्मादेवं तस्मादुषसो रजसोऽंतरिक्षलोकस्य पूर्वेऽर्धे प्राचीनदिग्भागे भानुं प्रकाशमजंते । व्यक्तीकुर्वंति । धृष्णवो धर्षणशीला योद्धार आयुधानीव यथासिप्रभृतीन्यायुधानि संस्कुर्वंति एवं निष्कृण्वानाः स्वभासा जगत्संस्कुर्वाणा गावो गमनस्वभावा अरुषीरारोचमाना मातरः सूर्यप्रकाशस्य निर्मात्र्यो जगज्जनन्यो वोषसः प्रति यंति । प्रतिदिवसं गच्छंति । एवंविधा उषसोऽस्मान्रक्षंत्वित्यर्थः । अत्र निरुक्तम् । एतास्ता उषसः केतुमकृषत प्रज्ञानमे । कस्या एव पूजनार्थे बहुवचनं स्यात् पूर्वेर्धेऽंतरिक्षलोकस्य समंजते भानु ना निष्कृण्वाना आयुधानीव धृष्णवः । निरत्येष समित्येतस्य स्थाने । एमीदेषां निष्कृतं जारिणीवेत्यपि निगमो भवति । प्रति यंति गावो गमनादरुषीरारोचनान्मातरो भासो निर्मात्र्यः । नि १२-७ । इति ॥ अक्रतः । करोतेर्लुङु मंत्रे घसेति च्लेर्लुक् । निष्कृण्वानाः । कृवि । हिंसाकरणयोश्च । अस्मात्ताच्छीलिकश्चानश् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । इदुदुपधस्य चाप्रत्ययस्येति विसर्जनीयस्य षत्वं कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १ ॥